|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.197. अध्यायः 197
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन पाण्डवान्प्रति क्षत्रियमहिमख्यापकशिबिचरित्रकीर्तनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-197-0x(2426)(23719)
ततः पाण्डवाः पुनर्मार्कण्डेयमूचुः ॥ 3-197-1(23720)
कथितं ब्राह्मणमाहात्म्यं राजन्यमाहात्म्यमिदानीं शुश्रूषामह इति तानुवाच मार्कण्डेयो महर्षिः श्रूयतामिदानीं राजन्यानां माहात्म्यमिति ॥ कुरूणामन्यतमः सुहोत्रो नाम राजा महर्षीनभिगम्य निवृत्यरथस्थमेव राजानमौशीनरं शिबिं ददर्शाभिमुखं तौ समेत्य परस्परेण यथावयः पूजां प्रयुज्य गुणसाम्येन परस्परेण तुल्यात्मानौ विदित्वाऽन्योन्यस्य पन्थानं न ददतुस्तत्र नारदः प्रादुरासीत्किमिदं भवन्तौ परस्परस्य पन्थानमावृत्य तिष्ठत इति ॥ 3-197-2(23721)
तावूचतुर्नारदं नैतद्भगवन्पूर्वकर्मकर्त्रादिभिर्विशिष्टस् पन्था उपदिश्यते समर्थाय वा आवां च सख्यं परस्परेणोपगतौ तच्चावधानतोऽत्युत्कृष्टमधरोत्तरं परिभ्रष्टम् ॥
नारदस्त्वेवमुक्तः श्लोकत्रयमपठत् ॥ 3-197-3(23722)
क्रूरः कौरव्य मृदवे मृदुः क्रूरे च कौरव।
साधुश्चासाधवे साधुः साधवे नाप्नुयात्कथम् ॥ 3-197-4(23723)
कृतं शतगुणं कुर्यान्नास्ति देवेषु निर्णयः।
औशीनरः साधुशीलो भवतो वै महीपतिः ॥ 3-197-5(23724)
जलेत्कदर्यं दानेन सत्येनानृतवादिनम्।
क्षमया क्रूरकर्माणमसाधुं साधुना जयेत् ॥ 3-197-6(23725)
तदुभावेव भवन्तावुदारौ य इदानीं भवद्भ्यामन्यतमः सोपसर्पतु एतद्वै निदर्शनमित्युक्ताव तूष्णीं नारदो बभूव ॥ एतच्छ्रुत्वा तु कौरव्यः शिबिं प्रदक्षिणं कृत्वा पन्थानं दत्त्वा बहुकर्मभिः प्रशस्य प्रययौ ॥ 3-197-7(23726)
तदेतद्राज्ञो महाभाग्यमप्युक्तवान्नारदः ॥ 3-197-8(23727)
॥ इतिश्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमाख्यापर्वणि सप्तनवत्यधिकशततमोऽध्यायः ॥ 197 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-197-3 नैतत् यत्पन्थास्त्याज्य इत्येतन्नेत्यर्थः। तत्र हेतुः पूर्वेति। पूर्वे च ते कर्मकर्त्रादयश्चेति विग्रहः। अनुमन्तृवक्तृप्रभृतय आदिशब्दार्थः। अवधानतो विचारतः। अधरेति। आवयोस्तारतम्यं नास्तीत्यर्थः ॥ 3-197-4 पूर्वार्धे खलवृत्तं नाप्नुयात्साधुत्वं वै कथं न कुर्यादित्यर्थः ॥ 3-197-8 राज्ञः शिबेः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|